|
|
 |
 |
|
|
५ उद्योगपर्व.jpg)
॥ श्रीः ॥
5.46. अध्यायः 046
Mahabharata - Udyoga Parva - Chapter Topics
सनत्सुजातेन धृतराष्ट्रंप्रति तत्वोपदेशः ॥ 1 ॥
Mahabharata - Udyoga Parva - Chapter Text
सनत्सुजात उवाच। 5-46-0x(3536)(33497)
यत्तच्छुक्रं महञ्ज्योतिर्दीप्यमानं महद्यशः।
तद्वै देवा उपासते तस्मात्सूर्यो विराजते।
योगिनस्तं प्रपश्यन्ति भगवन्तं सनातनम् ॥ 5-46-1(33498)
शुक्राद्ब्रह्म प्रभवति ब्रह्म शुक्रेण वर्धते।
तच्छुकं ज्योतिषां मध्येऽतप्तं तपति तापनम् ।
योगिनस्तं प्रपश्यन्ति भगवन्तं सनातनम् ॥ 5-45-2(33499)
आपोऽथाद्भ्यः सलिलस्य मध्ये
उभौ देवौ शिश्रियातेऽन्तरिक्षे।
अतन्द्रितः सवितुर्विवस्वा-
नुभौ बिभर्ति पृथिवीं दिवं च॥
योगिनस्तं प्रपश्यन्ति भगवन्तं सनातनम् ॥ 5-46-3(33500)
उभौ च देवौ पृथिवीं दिवं च
दिशः शुक्रो भुवनं बिभर्ति ।
तस्माद्दिशः सरितश्च स्रवन्ति
तस्मात्समुद्रा विहिता महान्ताः ॥
योगिनस्तं प्रपश्यन्ति भगवन्तं सनातनम् ॥ 5-46-4(33501)
चक्रे रथस्य तिष्ठन्तोऽध्रुवस्याव्ययकर्मणः।
केतुमन्तं वहन्त्यश्वास्तं दिव्यमजरं दिवि।
योगिनस्तं प्रपश्यन्ति भगवन्तं सनातनम् ॥ 5-46-5(33502)
न सादृश्ये तिष्ठति रूपमस्य
न चक्षुपा पश्यति कश्चिदेनम्।
मनीषयाथो मनसा हृदा च
य एनं विदुरमृतास्ते भवन्ति॥
योगिनस्तं प्रपश्यन्ति भगवन्तं सनातनम् ॥ 5-46-6(33503)
द्वादशपूगां सरितं पिबन्तो देवरक्षिताम्।
मध्वीक्षन्तश्च ते तस्याः संचरन्तीह घोराम् ।
योगिनस्तं प्रपश्यन्ति भगवन्तं सनातनम् ॥ 5-46-7(33504)
तदर्धमासं पिबति संचितं भ्रमरो मधु।
ईशानः सर्वभूतेषु हविर्भूतमकल्पयत्।
योगिनस्तं प्रपश्यन्ति भगवन्तं सनातनम् ॥ 5-46-8(33505)
हिरण्यपर्णमश्वत्थमभिपद्य ह्यपक्षकाः।
ते तत्र पक्षिणो भूत्वा प्रपतन्ति यथादिशम्।
योगिनस्तं प्रपश्यन्ति भगवन्तं सनातनम् ॥ 5-46-9(33506)
पूर्णात्पूर्णान्युद्धरन्ति पूर्णात्पूर्णानि चक्रिरे।
हरन्ति पूर्णात्पूर्णानि पूर्णमेवावशिष्यते।
योगिनस्तं प्रपश्यन्ति भगवन्तं सनातनम् ॥ 5-46-10(33507)
तस्माद्वै वायुरायातस्तस्मिंश्च प्रयतः सदा।
तस्मादग्निश्च सोमश्च तस्मिंश्च प्राण आततः ॥ 5-46-11(33508)
सर्वमेव ततो विद्यात्तत्तद्वक्तुं न शक्नुमः।
योगिनस्तं प्रपश्यन्ति भगवन्तं सनातनम् ॥ 5-46-12(33509)
अपानं गिरपि प्राणः प्राणं गिरति चन्द्रमाः।
आदित्यो गिरते चन्द्रमादित्यं गिरते परः ।
योगिनस्तं प्रपश्यन्ति भगवन्तं सनातनम् ॥ 5-46-13(33510)
एकं पादं नोत्क्षिपति सलिलाद्धंस उच्चरन्।
तं चेत्सन्ततमूर्ध्वाय न मृत्युर्नामृतं भवेत्।
योगिनस्तं प्रपश्यन्ति भगवन्तं सनातनम् ॥ 5-46-14(33511)
अङ्गुष्ठमात्रः पुरुषोऽन्तरात्मा
लिङ्गस्य योगेन स याति नित्यम्।
तमीशमीड्यमनुकल्पमाद्यं
पश्यन्ति मूढा न विराजमानम्॥
योगिनस्तं प्रपश्यन्ति भगवन्तं सनातनम् ॥ 5-46-15(33512)
असाधना वापि ससाधना वा
समानमेतद्दृश्यते मानुषेषु।
समानमेतदमृतस्येतरस्य
मुक्तास्तत्र मध्व उत्सं समापुः ॥
योगिनस्तं प्रपश्यन्ति भगवन्तं सनातनम् ॥ 5-46-16(33513)
उभौ लोकौ विद्यया व्याप्य याति
तदा हुतं चाहुतमग्निहोत्रम्।
मा ते ब्राह्मी लघुतामादधीत
प्रज्ञानं स्यान्नाम धीरा लभन्ते ॥
योगिनस्तं प्रपश्यन्ति भगवन्तं सनातनम् ॥ 5-46-17(33514)
एवंरूपो महात्मा स पावकं पुरुषो गिरन्।
यो वै तं पुरुषं वेद तस्येहार्थो न रिष्यते।
योगिनस्तं प्रपश्यन्ति भगवन्तं सनातनम् ॥ 5-46-18(33515)
यः सहस्रं सहस्राणां पक्षान्संतत्य संपतेत्।
मध्यमे मध्य आगच्छेदपिचेत्स्यान्मनोजवः।
योगिनस्तं प्रपश्यन्ति भगवन्तं सनातनम् ॥ 5-46-19(33516)
न दर्शने तिष्ठति रूपमस्य
पश्यन्ति चैनं सुविशुद्धसत्वाः।
हितो मनीषी मनसा न तप्यते
ये प्रव्रजेयुरमृतास्ते भवन्ति॥
योगिनस्तं प्रपश्यन्ति भगवन्तं सनातनम् ॥ 5-46-20(33517)
गूहन्ति सर्पा इव गह्वराणि
स्वशिक्षया स्वेन वृत्तेन मर्त्याः।
तेषु प्रमुह्यन्ति जना विमूढा
यथाध्वानं मोहयन्ते भयाय ॥
योगिनस्तं प्रपश्यन्ति भगवन्तं सनातनम् ॥ 5-46-21(33518)
नाहं सदाऽसत्कृतः स्यां न मृत्यु-
र्न चामृत्युरमृतं मे कुतः स्यात्।
सत्यानृते सत्यसमानबन्धे
सतश्च योनिरतसतश्चैक एव ॥
योगिनस्तं प्रपश्यन्ति भगवन्तं सनातनम् ॥ 5-46-22(33519)
न साधुना नोत असाधुना वा-
ऽसमानमेतद्दृश्यते मानुषेषु।
समानमेतदमृतस्य विद्या-
देवं युक्तो मधु तद्वै परीप्सेत् ॥
योगिनस्तं प्रपश्यन्ति भगवन्तं सनातनम् ॥ 5-46-23(33520)
नास्यातिवादा हृदयं तापयन्ति
नानधीतं नाहुतमग्निहोत्रम्।
मनो ब्राह्मी लघुतामादधीत
प्रज्ञां चास्मै नाम धीरा लभन्ते ॥
योगिनस्तं प्रपश्यन्ति भगवन्तं सनातनम् ॥ 5-46-24(33521)
एवं यः सर्वभूतेषु आत्मानमनुपश्यति।
अन्यत्रान्यत्र युक्तेषु किं स शोचेत्ततः परम् । 5-46-25(33522)
यथोदपाने महति सर्वतः संप्लुतोदके।
एवं सर्वेषु वेदेषु आत्मानमनुजानतः ॥ 5-46-26(33523)
अङ्गुष्ठमात्रः पुरुषो महात्मा
न दृश्यतेऽसौ हृदि संनिविष्टः ।
अजश्चरो दिवारात्रमतन्द्रितश्च
स तं मत्वा कविरास्ते प्रसन्नः ॥ 5-46-27(33524)
अहमेव स्मृतो माता पिता पुत्रोऽस्म्यहं पुनः।
आत्माहमपि सर्वस्य यच्च नास्ति यदस्ति च ॥ 5-46-28(33525)
पितामहोऽस्मि स्थविरः पिता पुत्रश्च भारत।
ममैव यूयमात्मस्था न मे यूयं न वो ह्यहम् ॥ 5-46-29(33526)
आत्मैव स्थानं मम जन्म चात्मा
ओतप्रोतोऽहमजरप्रतिष्ठः।
अजश्चरो दिवारात्रमतन्द्रितोऽहं
मां विज्ञाय कविरास्ते प्रसन्नः ॥ 5-46-30(33527)
अणोरणीयान्सुमनाः सर्वभूतेषु जाग्रति।
पितरं सर्वभूतेषु पुष्करे निहितं विदुः ॥ ॥ 5-46-31(33528)
इति श्रीमन्महाभारते उद्यगपर्वणि सनत्सुदजातपर्वणि षट्चत्वारिंशोऽध्यायः ॥ ॥ समाप्तमिदं सनत्सुजातपर्व ॥
Mahabharata - Udyoga Parva - Chapter Footnotes

|
 100000 shlokas.jpg)
|
|
"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshoati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India. |
| |
| |
|
|
| |
|
|
| |
|
|